माता प्रत्यक्षदेवता ॥
जनयित्री प्रसूर्माता
जननी जन्मदा तथा।
अम्बा मातेति नामानि
मातृसम्बन्धकानि वै ॥
यथा सर्वंसहा भूमिः
यथोन्नतहिमाचलम् ।
तथा माता महाधन्या
विशाला चोन्नता वरा ॥
माता तु सर्वथा वन्द्या
माता हि करुणापरा ।
समेषां जीवजालानां
माता तु देवता परा ॥
नाशिका सर्वदुःखानां
सर्वसौख्यप्रदायिनी ।
सदा स्नेहमयी काचित्
गृहदीपसमा सदा ॥
माता पिता गुरुर्दैवं
इत्यस्ति महती प्रथा ।
प्रथमोक्ता प्रथायुक्ता
जननी मम देवता ॥
कारुण्यस्य च त्यागस्य
मूर्तीभूता तपस्विनी ।
सर्वेषां जीवजालानां
माता प्रत्यक्षदेवता ॥
वहनात् गर्भभारस्य
क्षीणा वमनभीषणा ।
सुखेन शयना चापि
सहमाना च वेदनाम् ॥
या तु पाययति स्तन्यं
लालयति तथा पुनः ।
स्नापनं स्वापनं तस्या :
तोषवर्धनहेतुकम् ॥
सर्जने तु महापीडां
वर्धने क्लेशजीवनम् ।
चिन्ताक्लेशस्तु वार्धक्ये
स्वपुत्रोन्नतिहेतुकः ॥
या जीवति परार्थाय
परसौख्यं हि कांक्षते ।
आद्याक्षरप्रदानेन
गुरुणां हि गुरुश्च सा ॥
विना स्वापं विना खेदं
विना स्नानविलेपनम् ।
यया हि जीवनं नीता
पुत्रपौत्रहिताय सा ॥
इहामुत्र तु या पुण्या
भक्त्या हि स्मर्यते सदा ।
आजीवं स्मरणीया मे
देवतां मातरं सदा॥
Vijayan V Pattambi















Leave a Reply