संस्कृतदिनगीतम् 2024

संस्कृतजीवनम्

संस्कृतभाषामधुरं पिबतु

मधुरं मधुमधुरम् ।

संस्कृतभाषां श्रृणुतान्नित्यं
मुरलीनिनदसमाम् ।

पठताद्भाषां ललितां सरलां
पावनचरितां ताम्

परमपवित्रां सागरतुल्यां
मधुरां पदललिताम् ।

वदतान्मानव ! संस्कृतभाषां
वीणाक्वणितसमाम्

लिखतान्नितं सरसमनोज्ञां
सारां चार्थभराम् ।

संस्कृतमेतत् जीवनमखिलं
सर्वजनानां मे

तस्मिन्नेव हि सततं भूयात्
स्नेहामृतवर्षम् ॥

Vijayan V Pattambi

Leave a Reply

Your email address will not be published. Required fields are marked *