Category Archives: Samasyapooranam Archives

सर्वं स्वप्नसमं गतम् – 28-07-2018

 

नूतना समस्या –

“सर्वं स्वप्नसमं गतम्”

ഒന്നാംസ്ഥാനം

ज्ञानी धनी बलीत्येव-
महंकुर्वन्ति मानवाः।
भागधेयस्य वैषम्ये
सर्वं स्वप्नसमं गतम्၊၊

Hareesh kumar

“അഭിനന്ദനങ്ങള്‍”

विद्या नैव विनश्यति – 21-07-2018

 

नूतना समस्या –

“विद्या नैव विनश्यति”

ഒന്നാംസ്ഥാനം

जातुचित् कल्पवृक्षस्य
फले ग्लानिर्भविष्यति।
किन्तु कल्पलतातुल्या
विद्या नैव विनश्यति၊၊

Dr. Nidheesh Gopi

“അഭിനന്ദനങ്ങള്‍”

 

क्षमा हि परमायुधम् – 14-07-2018

 

नूतना समस्या –

“क्षमा हि परमायुधम्”

ഒന്നാംസ്ഥാനം

क्षत्रियस्य क्षमा दोषः
ऋषीणां तु क्षमा गुणः।
मानवानां क्षमा शक्तिः
क्षमा हि परमायुधम्।।

Ambika Narayanan

“അഭിനന്ദനങ്ങള്‍”

प्रियं वदतु सर्वदा – 07-07-2018

 

नूतना समस्या –

“प्रियं वदतु सर्वदा”

ഒന്നാംസ്ഥാനം

प्रियवादी लभेत्सौख्यम्
स्थानं मित्रं तथा धनम्॥
प्रियेण लभ्यते सर्वम्
प्रियं वदतु सर्वदा॥

Dr. Nidheesh Gopi

“അഭിനന്ദനങ്ങള്‍”

कोपः सर्वविनाशकः – 30-06-2018

 

नूतना समस्या –

” कोपः सर्वविनाशकः”

ഒന്നാംസ്ഥാനം

शमादिषट्कविध्वंसात्
कोपो हरति वासनाः।
कोपो निहन्ति संस्कारं
कोपः सर्वविनाशकः।।

Prof. V. Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”

मा मैवं साहसं कुरु – 23-06-2018

 

नूतना समस्या –

“मा मैवं साहसं कुरु”

ഒന്നാംസ്ഥാനം

साहसेनैव लभ्यन्ते
जनैस्सर्वैः मनोरथाः।
पुनः मूढेन केनोक्तं
“मा मैवं साहसं कुरु”

ജ്യോത്സ്ന കെ.എസ്

“അഭിനന്ദനങ്ങള്‍”

दानं शीलेष्वनुत्तमम् – 16-06-2018

 

नूतना समस्या –

“दानं शीलेष्वनुत्तमम्”

ഒന്നാംസ്ഥാനം

मानवानां परं रूपं
शीलमित्येव विश्रुतम्।
परोपकारसम्पन्नं
दानं शीलेष्वनुत्तमम्।।

Dileep Unnikrishnan

“അഭിനന്ദനങ്ങള്‍”

संस्कृताय त्यजाम्यहम् – 09-06-2018

 

नूतना समस्या –

“संस्कृताय त्यजाम्यहम्”

ഒന്നാംസ്ഥാനം

आजीवं सेवनं कृत्वा
धनं यावदुपार्जितम्।
यावदन्तं तु तत्सर्वं
संस्कृताय त्यजाम्यहम्
।।

Sivadasan

“അഭിനന്ദനങ്ങള്‍”

सर्वं स्वप्नसमं गतम् – 02-06-2018

नूतना समस्या –

“सर्वं स्वप्नसमं गतम्”

ഒന്നാംസ്ഥാനം

शिलातैलस्य सौलभ्यं
केषाञ्चिद् भाविचिन्तनम्।
निर्वाचनफले प्राप्ते
सर्वं स्वप्नसमं गतम्।।

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

दुष्करं जनजीवितम् – 26-05-2018

 

नूतना समस्या –

“दुष्करं जनजीवितम्”

ഒന്നാംസ്ഥാനം

യഥാശക്തി മതാസക്തിം
ദീപയിത്വാ നരാധമൈഃ
വിധീയതേ വിനാ ക്ലേശം
ദുഷ്കരം ജനജീവിതം

JYOTSNA K S

“അഭിനന്ദനങ്ങള്‍”