अतिवृष्ट्या पीडितान् साक्षात्कर्तुं केन्द्रसङ्घस्य पर्यटनम् आगस्त् ७ तः ११ पर्यन्तम्।

तिरुवनन्तपुरम्- राज्य वृष्टिप्रलयबाधितान् साक्षाद्द्रष्टुं केन्द्रसङ्घस्य पर्यटनम् आगस्त सप्तमदिनाङ्कात् एकादशदिनाङ्कपर्यन्तं भविता। केन्द्रीय गृहमन्त्रालयस्य सहयोगिसचिवस्य डोः ए.वी. धर्मरेड्डीवर्यस्य नेतृत्वे सप्ताङ्गसंघः केरलीयतीरदेशेषु संघद्वयं भूत्वा विविधेषु जनपदेषु पर्यटनं विधास्यति।

सप्तम्यं तिथौ सायं सप्तवादने केरलीय समाश्वासायोगेन सह मेलनं भविता। ततः दुरितबाधितप्रदेशेषु सन्दर्शनं विधास्यति।
प्रथमसङ्घः आलप्पुषा तिरुवनन्तपुरं पत्तनंतिट्टा जनपदेषु पर्यटनं करोति। द्वितीयसङ्घः एरणाकुलं तृशूर् कोषिक्कोट् जनपदेषु च पर्यटति। एकादशे दिनाङ्के संघः मुख्यमन्त्रिणा सह साक्षात्कारं विधास्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *