ग्वाट्टिमाला अग्निपर्वतस्फोटनं, शतं जनाः मृताः, ग्वाट्टिमालामहानगरं भूतिपरिवृतमभवत्।

ग्वाट्टिमाला सिट्टि- ग्वाट्टिमालाख्ये मध्य अमेरिकाराष्ट्रे फ्यूगो अग्निपर्वतस्य स्फोटनेन मृतानां संख्या शताधिका जाता। अपघाते इतःपर्यन्तं २०० जनाः तिरोभूताः। एषां कृते मार्गणमनुवर्तते।

     ग्वाट्टिमाला नगरेण युतः अग्निपर्वतः रविवासरे रात्रावेव विस्फोटितः। स्फोटनात् परं नाडिकान् यावत् भूतिसङ्कुलं दृश्यते। अग्निपर्वतस्य समीपप्रदेशाः भूतिषु आप्लुताः अभवन्। कठिनेन धूमेन भूतिना च जनानां जीवनं दुष्करम् अभवत्। रक्षाप्रवर्तकैः बहवः जनाः समीपग्रामं नीताः। मृतदेहाः भूतिपरिवृताः दृष्टाः इति रक्षाप्रवर्तकाः अवदन्। अग्निशमनसेनाप्रभृतयः दुरन्तस्थले रक्षाप्रवर्तननिरताः सन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *