ओपरेषन् ब्लूस्टार् वार्षिकम्, सुवर्णक्षेत्रे सङ्घर्षः।

अमृतसर्- सुवर्णक्षेत्रे ओपरेषन् ब्लूस्टार् इति सैनिकदौत्यस्य चतुस्त्रिंशे वार्षिकसमारोहे सङ्घर्षावस्था सञ्जाता। सिख् धर्मानुयायिनां मुख्याराधनाकेन्द्रस्य अकाल् तख्द् इत्यस्य समीपमेव राडिक्किल् सिख् अङ्गैः तथा शिरोमणि गुरुद्वारा प्रबन्धकसमित्यङ्गैश्च मिथः सङ्घर्षः सञ्जातः।

     असिभिः दण्डैश्च समम् आगताः प्रवर्तकाः अकाल् तख्द्स्थे विशुद्धकेन्द्रे हमीन्दर् साहिबस्य १०० पाद दूरे सङ्घर्षावस्थामसृजन्। प्रतिषिद्धानां दूरीकरणावसरे एकं रक्षिदलाङ्गं रुग्णः अभवत्।

     १९८४ तमे वर्षे सैनिकव्यापारे आक्रमणप्रत्याक्रमणैः शताधिकाः जनाः मारिताः आसन्। तेषां स्मरणार्थं सुवर्णक्षेत्रे कार्यक्रमः आयोजितः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *