भारत-पाकिस्तान् सीमाप्रदेशः पिहितः, नयतन्त्रकार्यवाहकाः बहिर्नीताः, सिन्धुनदीजलसमयः संशीतीकृतश्च।

नवदिल्ली- जम्मू-काश्मीरदेशे पहल्गां स्थले संजाते भीकराक्रमणे पाकिस्तानं विरुध्य नयतन्त्रतले भारतेन कर्शनं कार्यान्वयं स्वीकृतम्। सिन्धुनदीजलसमयः संशीतीकृतः, पाकिस्तानपौराणां कृते SVES VISA इतः परं न दास्यति। भारतस्थाः पाक् नयतन्त्र कार्यालयस्थाः डिफन्स् अट्टाषे इति नयतान्त्रिकाः बहिर्नीताः। ते एकसप्ताहाभ्यन्तरे राष्ट्रादस्मात् गन्तव्याः इति आदिष्टम्। वागा अट्टारी इति सीमाप्रदेशौ पिहितौ। इत्यादयः भारतस्य निर्णयाः।

प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य आध्यक्ष्ये समायोजिते मन्त्रिमण्डलाधिवेशने अयं निर्णयः अभूत्।

Leave a Reply

Your email address will not be published. Required fields are marked *