केन्द्रमन्त्रिणः पोन् राधाकृष्णन् वर्यस्य वाहनव्यूहं रक्षिदलैः निरुद्धमिति विवादः।

पम्पा- शबरिमला दर्शनार्थमागतस्य केन्द्रीय वित्तसहमन्त्रिणः पोन् राधाकृष्णन् वर्यस्य यानं पम्पासमीपे रक्षिदलैः निरुद्धमिति विवादः। तस्य प्रतिवचनरूपेण रक्षिदलस्य विशदीकरणं च शबरिमला तीर्थाटने नूतनम् अध्यायं व्यरचयत्।

     पम्पा बस् निस्थानसमीपे मन्त्रिणः वाहनं रक्षिपुरुषैः निरुद्धमिति भ.ज.पा. दलस्य नेतारः आक्षेपम् उन्नीतवन्तः। किन्तु मन्त्रिणः यानं न निरुद्धं तद्व्यूहेषु अन्यतमं यानमेव निरुद्धमिति रक्षिदलस्य विशदीकरणम्। प्रक्षोभे भागं गृहीतः कश्चन तस्मिन् य़ाने अस्तीति सूचना लब्धा, शङ्का निवृत्यर्थं तद् यानं परीक्षितुमेव निरुद्धमिति पम्पायां नियुक्तः सेनाविशिष्टाधिकारी  हरिशङ्कर् वर्यः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *