अन्तर्जालं महत्तमम् – 11-08-2018

नूतना समस्या –

“अन्तर्जालं महत्तमम्”

ഒന്നാംസ്ഥാനം

“अश्रुतं श्रुतमित्येव –
मदृष्टं दृष्टमित्यपि ।
अस्मिन्नेवोपलभ्यत्वा –
दन्तर्जालं महत्तमम् ” ॥

Prof. V Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”

 

 

 

12 Responses to अन्तर्जालं महत्तमम् – 11-08-2018

  1. Ratheesh. Ak says:

    രണ്ടാംസ്ഥാനം

    अङ्गुलीस्पर्शनेनैव
    अमूल्यज्ञानसम्पद:
    अवाप्नोतुं सदा योग्यं
    अन्तर्जालं महत्तरम् ॥

  2. nithinkylas says:

    ജ്ഞാനജാലാൻ സംവിതാര്യ
    മൂല്യവത് രത്നലാഭാർത്ഥം
    വിദ്യാസാഗരസമാനം
    അന്തർജാലം മഹത്തരം

  3. वि. जे. श्री कुमारः अमृता संस्कृतHss पारिप्पल्ली कोल्लम् says:

    മൂന്നാംസ്ഥാനം

    ज्ञानेन सदृशं किञ्चित्
    लोके न स्यात् कदाचन ।
    ज्ञानराशेस्सुदानत्वात्
    अन्तर्जालं महत्तरम् ॥

  4. ഹരികൃഷ്ണൻ says:

    ജ്ഞാനമയൂഖമായാതി
    കൂപമണ്ഡൂകപണ്ഡിതാഃ!
    ഗൈർവാണീ നവവാണീ ച
    അന്തർജാലം മഹത്തമം

  5. रञ्जित्त् says:

    एकया मात्रया सर्वा
    प्रादर्शयति सर्वेषाम्
    समर्थो कोपि वा कर्तुम्
    अन्तर्जालं महत्तमम्

  6. Maya PR says:

    नव्यानुभवैः सम्पन्ना शिक्षणरीतिः
    सरलता विशालता च सञ्जाता ।
    शिक्षणस्य व्याप्तिः वर्द्धनाय
    अन्तर्जालं महत्तमम् ।।

  7. Prof. V Madhavan Pillai Thiruvananthapuram says:

    “सत्वरङ्कीर्तिलाभाय
    साम्प्रतं यदसाम्प्रतम् ।
    सर्वम्मालिन्‍यगुप्तन्त-
    – दन्तर्जालम् महत्तमम्” ॥

  8. स्नेहा श्रीकृष्णपुरम् says:

    देववाण्याः प्रसाराय
    नववाण्याःप्रसादकाः ।
    दत्तश्रद्धास्त्वतोनूनं
    अन्तर्जालं महत्तमम्।।

  9. गायत्री श्रीकृष्णपुरम्। says:

    नववाण्याः प्रसाराय
    नववाणीसदामुदा।
    प्रगतावधुनानित्यं
    अन्तर्जालं महत्तमम्।।

  10. राजकृष्णः श्रीकृष्णपुरम् says:

    മൂന്നാംസ്ഥാനം

    समग्रायाः प्रभावेण
    शिक्षकाणां सुमेधिनाम्
    सर्वशिक्षाभियानाय
    अन्तर्जालं महत्तमम्

  11. Prof. V Madhavan Pillai Thiruvananthapuram says:

    “सुकृतन्दुष्कृतञ्चैव
    विकृतन्दूषणं तथा।
    भूषणं मोहकं प्रेषत्
    अन्तर्जालं महत्तमम् ॥

  12. Prof. V. Madhavan Pillai Thiruvananthapuram says:

    ഒന്നാംസ്ഥാനം

    “अश्रुतं श्रुतमित्येव –
    मदृष्टं दृष्टमित्यपि ।
    अस्मिन्नेवोपलभ्यत्वा –
    दन्तर्जालं महत्तमम् ” ॥

Leave a Reply

Your email address will not be published. Required fields are marked *