निपा विषाणोः प्रभवस्थानं फलादचर्मखग‌ः इति स्थिरीकृतम्।

तिरुवनन्तपुरम्-निपा विषाणोः प्रभवः फलभोजी चर्मखगः इति स्थिरीकृतम्। ऐ.सी.एम्.आर्. परीक्षणे एवेदं कार्यम् अवगतम्। केन्द्र स्वास्थ्यमन्त्री जे.पी. नद्दावर्यः कार्यमेतत् स्थिरीकृतवान्। एकस्य राष्ट्रिय वार्तामाध्यमस्य कृते दत्ते अभिमुखे तानेदं स्थिरीकृतम्। पूर्वं षट्पदादचर्मखगेषु कृते परीक्षणे निपा विषाणोः सान्निध्यं न दृष्टमासीत्। पुनः निपाबाधितानां गृहसमीपात् गृहीतेषु फलादचर्मखगेषु कृते परीक्षणे एव प्रभवस्थानं स्थिरीकृतम्।

Leave a Reply

Your email address will not be published. Required fields are marked *