जिह्वाप्रसादः – विजयन् वि पट्टाम्बि।

सर्वेन्द्रियेषु प्रसादभूता

जिह्वा जनानां मुखोपविष्टा

जीयादनल्पा विवदमाना

खादनकर्मणि नित्यतृप्ता।

 

यान्यसौ वस्तूनि चात्तिमोदा-

न्नास्त्यत्र दोषो हा सद्यःपाती

यान्यसौ भाषते क्षिप्रकोपा-

दापत्प्रदा सैषा नास्ति तर्कः।

 

कारागृहावासदण्डदोषान्

भौतिकमानसदुःखजालान्

सर्वान् विधत्ते रसनेन्द्रियं

ज्येष्ठाविलासात् हा हन्त कष्टम्।

 

सत्यं वदत हितं वदत

सत्यानुरूपं प्रियं वदत

सौभाग्यमत्रैव लभ्यमहो

जिह्वाप्रसादेन सज्जनेभ्यः।

3 Responses to जिह्वाप्रसादः – विजयन् वि पट्टाम्बि।

  1. Valla ravi says:

    very good

  2. nithinkylas says:

    Uthamam aachaarya

  3. Jose CV says:

    👏👏👏👏🌹🌹🌹

Leave a Reply

Your email address will not be published. Required fields are marked *