वित्तकोशे महती अग्निबाधा

कोच्ची – एरणाकुलं वित्तकोशप्रासादे महती अग्निबाधा। टी.डी. रोड् समीपस्थस्य बाङ्क् आफ् बरोडा नामकस्य वित्तकोशस्य प्रासादे प्रातः ६.३० वादने एव अग्निबाधा दृष्टा। अग्निशमनसेना आगत्य अग्निं निरवापत्। परन्तु एरणाकुलं मेखला कार्यालयस्य एको भागः पूर्णतया अग्निसादभवत्।

     विद्युद् बन्धे सञ्जाता हानिरेव अग्निबाधायाः कारणमिति प्राथमिकं निगमनम्। केरल राज्यवैद्युतिनिगमस्य अधिकारिणः आगत्य परिशोधनामकुर्वन्। अग्निबाधया महान् नष्टः सञ्जात इति वित्तकोशाधिकृतैः उक्तम्।

Leave a Reply

Your email address will not be published. Required fields are marked *