मुम्बै अन्धेरी स्थले अग्निबाधा, १२ जनाः मृता। बहवः अन्तः स्थगिताः।

मुम्बै – मुम्बैय्याम् अन्धेरी स्थले जातायाम् अग्निबाधायां १२जनाः मृताः। पूर्वान्धेर्याम् एकस्यां पण्यशालायां सोमवासरे प्रातः जातायाम् अग्निबाधायां २०० पादपरिमिता पण्यशाला विशीर्णा। शालायाः अन्तः १२ अधिकं जनाः स्थगिता इत्यपि आवेदयति। लक्ष्मीनारायण मन्दिरसमीपं खैराणी रथ्यायां भानू फर्सन् आपणे प्रातः ४.१५ वादने आसीत् अग्निबाधा। भक्ष्यशेखरं वस्त्राणि गृहोपकरणानि इत्येतेषां विक्रयणस्थले तेषामुपरि आपणसौधं पपात। तत्रत्याः कर्मकराः एव अन्तः स्थगिताः। अगनिशमनसेनायाः नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *