ओखी दुरन्ते फ्रान्सिस् मार्पापा अन्वशोचत्।

वत्तिक्कान् – ओखी दुरन्ते अनुशोचनम् आशङ्कां च सूचयन् क्रैस्तवानां परमाध्यक्षः फ्रान्सिस् मार्पापा। केरले तमिल् नाटु राज्ये च दुरितमनुभवद्भिः सहैव मम हृदयमपीति मार्पापा वर्यः वत्तिक्कान् नगरे अवोचत्। तिरोभूतानां मत्स्यबन्धनकर्मकराणां परिवारेभ्यः सः स्वकीयं साहाय्यम् आवेदयत्। सेय्न्ट् पीट्टेर्स् चत्वरे प्रार्थनायाः अनन्तरमेव मार्पापा ओखी दुरन्तबाधितान् अन्वस्मरत्।

Leave a Reply

Your email address will not be published. Required fields are marked *