ओखी चक्रवातेन बाधितानां कृते १५० कोटिमितसहायपद्धतिः प्रख्यापितः।

तिरुवनन्तपुरम् – ओखी चक्रवातेन मृतानां परिवाराय २०लक्षरूप्यकाणि एवम् दुराबाधितानां कृते च आहत्य १५० कोटिमिता साहाय्यपद्धतिः केरलसर्वकारेण प्रख्यापितः। तदन्तरे गुजरातस्य तटवर्तिक्षेत्रे अस्य प्रभावः नैव भविष्यतीति सम्भाव्यते। परं अहम्मदाबादस्थितेन ऋतुविज्ञानविभागेनोक्तं  यत् दक्षिणगुजराते चक्रवातस्य किञ्चित् प्रभावः भवितुं शक्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *