“सैबर्-स्पेस्” द्विदिवसीयं विश्वसम्मेलनं नवदिल्ल्याम्।

नवदिल्ली – सैबर् स्पेस् इति संगणक-संजालमधिकृत्य द्विदिवसीयं वैश्विकसम्मेलनम् अद्य नवदिल्लयां समारभते। प्रधानमन्त्री श्री नरेन्द्रमोदी एतत्सम्मेलनस्य समुद्घाटनं विधास्यति। सम्मेलनमिदं इदम्प्रथमतया भारते समायोज्यते। सम्मेलनस्य मुख्यविचारबिन्दुरस्ति “स्थायि-प्रगतेभ्यः सर्वेभ्यः सुरक्षितं सौगणिक-संजाल-सौविध्यम्” इति। सम्मेलने∫स्मिन् सपादशतदेशेभ्यः दशसहस्राधिकाः विश्वनेतारः नीतिनिर्मातारः, उद्योगपतयः, चिन्तकाः, संगणकविशेषज्ञाः च  विभिन्नान् विषयबिन्दून् अधिकृत्य स्वीयमुद्गारं प्रकाशयिष्यन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *