गौरी लङ्केशहत्या, अपराधिनः गृहीतप्रायाः।

बङ्गलूरु – वरिष्ठायाः माध्यमप्रवर्तिकायाः तथा सङ्घपरिवारविमर्शिकायाश्च गौरी लङ्केशवर्यायाः हत्याकाण्डे व्यवहारः अचिरेण पूर्तीकरिष्यतीति कर्णाटकराज्यस्य गृहमन्त्री रामलिङ्गरेड्डी अवदत्। एकसप्ताहाभ्यन्तरे हत्यायां भागं गृहीतानां नामानि अनाच्छादयिष्यति इत्यपि स न्यगादीत्।

अभिशस्तानां यथार्थचित्राणि लब्धानि। अधुना प्रामाण्यसम्पादनं प्रवर्तते। नरेन्द्र धाबोल्कर्, गोविन्द पन्सारे प्रभृतीनां वधव्यवहारवत् अस्याः हत्यायाः अन्वेषणं स्थगितं न भविष्यति। घातकानां ग्रहणं नूनं भविष्यति इत्यपि स अब्रवीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *