वशी विजयते सदा (भागः 470) 21-11-2026

EPISODE – 470

नूतना समस्या-

“वशी विजयते सदा”

प्रथमस्थानम्

“इन्द्रियाणि तु सर्वाणि
धावन्ति तुरगादिवत्।
तेषां नियन्त्रणं कुर्वन्
वशी विजयते सदा” ॥

Sridevi

 

“अभिनन्दनानि”

10 Responses to वशी विजयते सदा (भागः 470) 21-11-2026

  1. Layaan Muhammed says:

    मनः संयम्य धीरत्वं,
    सत्यधर्मपथे स्थितः।
    लोभमोहौ परित्यज्य,
    वशी विजयते सदा॥

  2. Radhakrishnan says:

    तृतीयस्थानम्

    ആർജിതവ്യം വശിത്വം ഹാ!
    കൃഛ്രേണാപി മനീഷിണ:
    ലോകോക്തി: ശ്രൂയതാം സാധോ !
    വശീ വിജയതേ സദാ

  3. Aparna says:

    ഗുണായൈവ ന ദോഷായ
    വശിനാ സഹ മിത്രതാ
    ബോധനീയമിദം സമ്യക്
    വശീ വിജയതേ സദാ

  4. Ramachandran says:

    कामिनी काञ्चनं चोभे
    कुरुतः चञ्चलं मनः ।
    इन्द्रियाणि तु संयम्य
    वशी विजयते सदा ॥

  5. Narayanan Namboothiri says:

    द्वितीयस्थानम्

    विचित्रेस्मिंस्तु संसारे
    जीवनं बहुदुष्करम् ।
    कामक्रोधौ नियम्यैव
    वशी विजयते सदा ॥

  6. Vijayan V Pattambi says:

    जेतारो बहवस्सन्ति
    कलासु जीवितेष्वपि ।
    इन्द्रियदमनेनैव
    वशी विजयते सदा ॥

  7. DHANYA MYDHILI says:

    न शस्त्रेण न वित्तेन
    न बलेन च केवलम ।
    स्वचित्तं यस्तु संरुन्ध्यात्
    वशी विजयते सदा ॥

  8. Atheetha says:

    യസ്തു സ്വാർഥം പരിത്യജ്യ
    പരാർഥമുപജീവതി
    സോ വൈ വശീ ന സംശീതി:
    വശീ വിജയതേ സദാ

  9. Sridevi says:

    प्रथमस्थानम्

    इन्द्रियाणि तु सर्वाणि
    धावन्ति तुरगादिवत्।
    तेषां नियन्त्रणं कुर्वन्
    वशी विजयते सदा ॥

  10. Bhaskaran N K says:

    മനസ്സംയമനം കാര്യം
    വ്യവഹാരേഷു സർവദാ
    ജഗതോ രീതിരേഷാ ഹി
    വശീ വിജയതേ സദാ

Leave a Reply

Your email address will not be published. Required fields are marked *