बुभुक्षा दुःखदायिका (भागः 450) – 04-07-2026

EPISODE – 450

नूतना समस्या –

“बुभुक्षा दुःखदायिका”

प्रथमस्थानम्

“प्राज्ञैः दुःखत्रयं प्रोक्तं
तत्र ह्येकन्तु भौतिकम् ।
तत्राप्युदरसम्बन्धा
बुभुक्षा दुःखदायिका” ॥

Deepa

“अभिनन्दनानि”

9 Responses to बुभुक्षा दुःखदायिका (भागः 450) – 04-07-2026

  1. NARAYANAN. N says:

    तृतायस्थानम्

    വജ്രാദപ്യതിശക്താ ഹി
    നിതരാം നിശിതാ ച സാ
    അസഹ്യാ പരിഹാര്യാ ച
    ബുഭുക്ഷാ ദുഃഖദായികാ

  2. Ramachandran says:

    जनबहुलराष्ट्रस्य
    चिन्तनीयं हि शासकैः ।
    कथं तु परिहर्तव्या
    बुभुक्षा दुःखदायिका ॥

  3. Sridevi says:

    चित्तन्तु शोकसन्तप्तं
    देहो गच्छेच्च शोषताम्
    देहाय च शरीराय
    बुभुक्षा दुःखदायिका ॥

  4. Bhaskaran N K says:

    ദുഃഖഹേതുഷു ഹാ! പശ്യ
    ബുഭുക്ഷാന്യതരാ ഖലു
    സഞ്ജാതേ ഭക്ഷ്യദൗർഭിക്ഷ്യേ
    ബുഭുക്ഷാ ദുഃഖദായികാ

  5. Narayanan Namboothiri says:

    कर्षको ह्येव राष्ट्रस्य
    दुःखस्य तु निवारकः ।
    असह्या कठिना चैव
    बुभुक्षा दुःखदायिका ॥

  6. Vijayan V Pattambi says:

    जनबहुलराष्ट्रस्य
    चिन्तनीयं हि शासकैः ।
    कथं तु परिहर्तव्या
    बुभुक्षा दुःखदायिका ॥

  7. Radhakrishnan says:

    द्वितीयस्थानम्

    പ്രാതരാശോ ന മേ ചാസീത്
    മധ്യാഹ്നേ തു തഥൈവ ച
    രാത്രൗ കഥം ന ജാനാമി
    ബുഭുക്ഷാ ദുഃഖദായികാ

  8. Deepa says:

    प्रथमस्थानम्

    प्राज्ञैः दुःखत्रयं प्रोक्तं
    तत्र ह्येकन्तु भौतिकम् ।
    तत्राप्युदरसम्बन्धा
    बुभुक्षा दुःखदायिका ॥

Leave a Reply

Your email address will not be published. Required fields are marked *