वृक्षः पुत्रसमः स्मृतः (भागः 446) 06-06-2026

EPISODE – 446

नूतना समस्या –

“वृक्षः पुत्रसमः स्मृतः”

प्रथमस्थानम्

“छायादानेन सर्वेभ्यः
प्रकृतेः रक्षणेन च ।
सफलश्चोन्नतो हन्त
वृक्षः पुत्रसमः स्मृतः” ॥

Vijayan V Pattambi

“अभिनन्दनानि”

8 Responses to वृक्षः पुत्रसमः स्मृतः (भागः 446) 06-06-2026

  1. हरिनारायणः says:

    सुपालित ऋजुत्वं हि
    दुष्पालितस्तु जिह्मताम्।
    यात्यवस्थाद्वयं यस्मात्
    वृक्षः पुत्रसमः स्मृतः।।

  2. Sridevi says:

    वृक्ष: पुत्र: कलत्रञ्च
    सर्वं मे प्रियदायकम् ॥
    गृहाद्बहिस्थितो रम्यः
    वृक्षः पुत्रसमः स्मृतः ॥

  3. Ramachandran says:

    नास्ति वृक्षो फलैर्हीनः
    नास्ति वृक्षमनौषधम् ।
    उपकाराच्च सर्वेषां
    वृक्षः पुत्रसमः स्मृतः ॥

  4. Radhakrishnan says:

    तृतीयस्थानम्

    വൃക്ഷാശ്ചേന്ന പ്രരോഹന്തി
    വൃഷ്ടിർനേഹ ഹി കർഹിചിത്
    വിവേകീ തു വിജാനീയാത്
    വൃക്ഷ: പുത്രസമ: സ്മൃത:

  5. NARAYANAN. N says:

    പ്രാണവായും സദാ ദത്വാ
    ഖാദനാത് ക്ഷിതിരക്ഷണം
    ഫലഭാരൈഃ ക്ഷുധാശാന്തിഃ
    വൃക്ഷ: പുത്രസമഃ സ്‌മൃത:

  6. Vijayan V Pattambi says:

    प्रथमस्थानम्

    छायादानेन सर्वेभ्यः
    प्रकृतेः रक्षणेन च ।
    सफलश्चोन्नतो हन्त
    वृक्षः पुत्रसमः स्मृतः ॥

  7. Bhaskaran N K says:

    द्वितीयस्थानम्

    ന കേവലം മനുഷ്യാണാം
    മൃഗാണാമപി രക്ഷക:
    സസ്യലോകസമാലംബോ
    വൃക്ഷ: പുത്രസമഃ സ്മൃതഃ

  8. Narayanan Namboothiri says:

    रोप्यन्ते च लता वृक्षाः
    गृहान्तेष्वपि सज्जनाः ।
    पाल्यन्ते च सदा तस्मात्
    वृक्षः पुत्रसमः स्मृतः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *