वयनाट् मण्डले भूस्खलनेन दुरितमनुभूतानां कृते पुनरधिवासपद्धतिः सफलतां याति
कल्पट्टा – वयनाट् मण्डले मुण्डक्कै-चूरल्मला प्रदेशयोः भूस्खलनेन बहवः जनाः मृताः आसन्। २०२४ जूलै मासस्य ३० तमे दिनाङ्के आसीदियं दुर्घटना। बहूनि गृहाणि वाणिज्यशालाः विद्यालयाश्च अस्यां दुर्घटनायां विनष्टानि अभवन्। तेषु प्राणमात्रावशिष्टानां कृते सर्वकारेण राजनैतिकदलैः सन्नद्धसङ्घटनाभिश्च वहुविधानि साहाय्यानि दत्तानि। मुख्यमन्त्रिणः दुरन्तनिवारणनिधौ सामान्यजनैः साहाय्यानि दत्तानि। प्रायः ७५० कोटि रूप्यकाणि एवं समाहृतानि।
दुरन्तबाधितानां पुनरधिवासाय केरलसर्वकारेण कल्पट्टानगरसमीपं लधुनगरपद्धतिः आयोजिता भवति।
४१० परिवाराणां कृते ४१० भवनानां निर्माणं २०२५ जूलै मासे समारब्धम्। तेषु प्रथमघट्टे १७८ गृहाणां निर्माणं प्रायः सम्पूर्णमभवत्।
अस्याः पद्धतेः भागत्वेन पूर्तीकृतानां भवनानां प्रदानं मार्च् मासस्य प्रखमे दिनाङ्के अस्मिन् लघुनगरे सम्पन्नम्। केरलस्य मुख्यमन्त्री श्री पिणरायि विजयः समारोहस्य उद्घाटनं कृतवान्। राजस्वमन्त्री श्री के राजन् आध्यक्ष्यमावहत्। विधानसभासदस्याः अन्ये मन्त्रिणः तद्देशप्रशासकाः विवधविभागानां सचिवाः मण्डलप्रशासिका राजनैतिकदलनेतारश्च सन्निहिताः आसन्। दशसहस्राधिकं जनाः कार्यक्रमेस्मिन् भागं गृहीताः।
अस्मिन् लघुनगरे गृहाणि विद्यालयः बालवाटिका क्रीडाक्षेत्रम् आतुरालयः व्यायामशाला ग्रन्थालयः वाणिज्यशाला च क्रमीकरिष्यति।
शिष्टानां गृहाणां निर्णाणं झटित्येव पूर्तीकृत्य मासत्रयाभ्यन्तरे वासाय दास्यतीति अधिकारिणः प्रास्तुवन्।












Leave a Reply