संस्कृतोत्सवः सुसम्पन्नः।

तिरुवनन्तपुरम् – सर्वाकारीयसंस्कृतकलालयस्य पठितपूर्वाणां  छात्राणां अध्यापकानां च मेलनस्य भागत्वेन विद्यालयीयसंस्कृतछात्राणां कृते आयोजिता कलासाहित्यस्पर्धा  प्रशस्तकविना  गिरीष् पुलियूर् वर्येण समुद्घाटिता। पूर्वतनछात्रसमितेः अध्यक्षः डा राजन् महाभागः, कार्यदर्शी अड्व.एस्.अरुण्, संकृतकौण्सिल् राज्यस्तरीयाध्यक्षः सुनिल् वेम्पायम्, डा. षाजी मात्यू वटक्कन्, श्री एन्. सदानन्दन् च भाषणं कृतवन्तः।

यु.पि., हैस्कू्ल्विभागेषु शताधिकाः छात्राः स्पर्धायां भागमभजन्। कवितारचना, कथारचना, उपन्यासरचना, अक्षरश्लोकस्पर्धा, पद्योच्चारणं, गानालपनं इत्यादिषु स्पर्धाः आयोजिताः। विजयिनां कृते पुरस्काराः २७ तमे प्रत्यागमनसमारोहे वितरिष्यन्तीति समायोजकाः विज्ञापयन्ति।

click here for the result

Leave a Reply

Your email address will not be published. Required fields are marked *