न वदेदनृतं वचः (भागः ३७५) 25-01-2025

EPISODE – 375

नूतना समस्या –

“न वदेदनृतं वचः”

प्रथमस्थानम्

सम्मुखे श्रेष्ठवैद्यस्य
प्राड्विवाकस्य सन्निधौ ।
पारिवारिकसङ्घे च
न वदेदनृतं वचः ॥

Ramachandran

“अभिनन्दनानि”

7 Responses to न वदेदनृतं वचः (भागः ३७५) 25-01-2025

  1. Radhakrishnan says:

    तृतीयस्थानम्

    ധരായാം ക്ലേശപൂർണായാം
    ഭീഷണം ജീവിതം ഖലു
    തഥാപി മതിമാൻ ജാതു
    ന വദേദനൃതം വചഃ

  2. Ramachandran says:

    प्रथमस्थानम्

    सम्मुखे श्रेष्ठवैद्यस्य
    प्राड्विवाकस्य सन्निधौ ।
    पारिवारिकसङ्घे च
    न वदेदनृतं वचः ॥

  3. Atheetha says:

    സത്യം യത്നേന സംരക്ഷേത്
    സത്യവാൻ രാജതേതരാം
    സത്യേ പ്രതിഷ്ഠിതോ ലോക:
    ന വദേദനൃതം വചഃ

  4. Bhaskaran N K says:

    പണ്ഡിതോ വാ പാമരോ വാ
    തഥാ യ: കോഽപി വാ നരഃ
    ധീരശ്ചേന്നിശ്ചയേനൈവ
    ന വദേദനൃതം വചഃ

  5. Sridevi says:

    यत्रास्ति हि मिथ: स्नेहः
    विश्वासश्च परस्परम् ।
    तयोश्च रक्षणायैव
    न वदेदनृतं वचः ॥

  6. Narayanan Namboothiri says:

    द्वितीयस्थानम्

    अनृतान्नश्यते लोकः
    वाचं चित्तं तथा धनम् ।
    उच्चते हि जनः प्राज्ञै :
    न वदेदनृतं वचः ॥

  7. Vijayan V Pattambi says:

    कष्टानि च बहूनि स्युः
    लाभो नष्टो भवत्यपि।
    जीवितसौख्यलाभाय
    न वदेदनृतं वचः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *