तमाहुः पण्डितं जनाः (भागः ३६४) 09-11-2024
EPISODE – 364
नूतना समस्या –
“तमाहुः पण्डितं जनाः”
प्रथमस्थानम्
स्वयं पठति शास्त्राणि
पाठयत्यपरांश्च यः ।
निस्वार्थिनं च धीमन्तं
तमाहुः पण्डितं जनाः ॥
Narayanan Namboothiri
“अभिनन्दनानि”
EPISODE – 364
नूतना समस्या –
“तमाहुः पण्डितं जनाः”
प्रथमस्थानम्
स्वयं पठति शास्त्राणि
पाठयत्यपरांश्च यः ।
निस्वार्थिनं च धीमन्तं
तमाहुः पण्डितं जनाः ॥
Narayanan Namboothiri
“अभिनन्दनानि”
द्वितीयस्थानम्
चिन्तयति सदा चादौ
विपदां यः प्रतिक्रियाम् ।
विवेकिनं महात्मानं
तमाहुः पण्डितं जनाः ॥
अपदि पतिते यस्मिन्
नैव धावति रोदिति ।
ज्ञाप्यते रक्षिकान् सर्वं
तमाहुः पण्डितं जनाः ॥
1
സാമാന്യജനക്ഷേമായ
സമുചിതേസന്ദർഭേ
മിതംസാരംചയോSവദത്
തമാഹുഃ പണ്ഡിതം ജനാഃ
സമസ്സമസ്തഭൂതേഷു
സമ്പത്തൗ ച വിപദ്യഹോ
സ്ഥിതപ്രജ്ഞം നരവ്യാഘ്രം
തമാഹുഃ പണ്ഡിതം നരാഃ
യസ്തിഷ്ഠതി സുഖേ നിത്യം
സാകം ദു:ഖേ തഥൈവ ച
താദൃശന്തു മഹാത്മാനം
തമാഹുഃ പണ്ഡിതം നരാഃ
സ്വാർത്ഥചിന്താ ന തസ്യാസ്തി
പരാർത്ഥേതൂപജീവതി
സമസ്തു സർവ്വഭൂതേഷു
തമാഹുഃ പണ്ഡിതം നരാഃ
काले पठति शास्त्राणि
पुराणानि गुरोर्मुखाद् ।
जानाति प्रज्ञया सर्वं
तमाहुः पण्डितं जनाः ॥
प्रथमस्थानम्
स्वयं पठति शास्त्राणि
पाठयत्यपरांश्च यः ।
निस्वार्थिनं च धीमन्तं
तमाहुः पण्डितं जनाः ॥
तृतीयस्थानम्
सुखेषु चापि दुःखेबु
समचित्तो भवेच्च यः ।
स्त्रीष्वपि यस्य नासक्ति:
तमाहुः पण्डितं जनाः॥
विशिष्टं तैः सदा सर्वं
न भाष्यते मूढत्वं च ।
उच्यते सदा ज्ञानं तैः
तमाहुः पण्डितं जनाः ॥