संस्कृतस्य दिनं महत् (भागः ३५४) 31-08-2024

EPISODE – 354

नूतना समस्या –

“संस्कृतस्य दिनं महत्”

प्रथमस्थानम्

“विज्ञानसागरस्यास्य
सर्वज्ञैः पूजितस्य च ।
जनन्याः सर्वभाषाणां
संस्कृतस्य दिनं महत्” ॥

Srividya

“अभिनन्दनानि”

 

11 Responses to संस्कृतस्य दिनं महत् (भागः ३५४) 31-08-2024

  1. Purushothaman Mumbai says:

    आदृत्य पण्डितान् श्रेष्ठान्
    ज्ञानवृद्धान् हि सज्जनान् ।
    पावनात् पावनं जातं
    संस्कृतस्य दिनं महत् ॥

  2. Sreeja Purushothaman says:

    विज्ञानां भाषणात् तद्वत्
    वस्तूनां च प्रदर्शनात् ।
    आलापैश्च हि गानानां
    संस्कृतस्य दिनं महत् ॥

  3. Narayanan Namboothiri says:

    ज्ञानदायकशक्तं तत्’
    भाषणायापि हेतुकम् ।
    शान्तिपूर्णं तथा शक्तं
    संस्कृतस्य दिनं महत् ॥

  4. Ramachandran says:

    सर्वसौख्यप्रदानाय
    पठन्ति संस्कृतं जनाः ।
    मनसि चिन्तनं तत्तु
    संस्कृतस्य दिनं महत् ॥

  5. Radhakrishnan says:

    ആഘുഷ്യന്തേ ദിനാനീഹ
    ഭാരതീയൈർബഹൂന്യഹോ
    പ്രാമുഖ്യം ഭജതേ തേഷു
    സംസ്കൃതസ്യ ദിനം മഹത്.

  6. Aparna says:

    സഞ്ജാതപുളകാസ്സർവേ
    സംസ്കൃതേ രതമാനസാ:
    സമായാതം സഹർഷം ഹാ!
    സംസ്കൃതസ്യ ദിനം മഹത്.

  7. Atheetha says:

    തൃതീയസ്ഥാനം

    ശ്രാവണേ പൂർണിമായാന്തു
    വർഷേ വർഷേ ഹി ഭാരതേ
    ആഘോഷയന്തി സാനന്ദം
    സംസ്കൃതസ്യ ദിനം മഹത്.

  8. Bhaskaran N K says:

    ദ്വിതീയസ്ഥാനം

    വിദ്യാലയേഷു സർവത്ര
    വൈവിധ്യേന ച സാമ്പ്രതം
    സമാചരതി സാനന്ദം
    സംസ്കൃതസ്യ ദിനം മഹത്.

  9. Sreerudra says:

    श्रावणपूर्णिमायां तु
    प्रतिवर्षं समागतम् ।
    हितप्रदं रसप्रदं
    संस्कृतस्य दिनं महत् ॥

  10. Narayanan Namboothiri says:

    यद्दिने संस्कृतज्ञास्तु
    मिलन्ते धन्यमानसा : ।
    भाषन्ते चाथ गायन्ति
    संस्कृतस्य दिनं महत् ॥

  11. Sreevidya says:

    प्रथमस्थानम्

    विज्ञानसागरस्यास्य
    सर्वज्ञैः पूजितस्य च ।
    जनन्याः सर्वभाषाणां
    संस्कृतस्य दिनं महत् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *