डो -मुत्तलपुरं मोहन् दास् वर्यः कालकवलितो अभवत्।

एरनाकुलम्- केरलीयसंस्कृतमण्डले लब्धप्रतिष्ठः कविः, बालसाहित्यकारः, अध्यापकः, अध्यापकप्रशिक्षकः इत्यादिषु रंगेषु विख्यातःडो- मुत्तलपुरं मोहनदासवर्यः दिवङ्गतः। स आस्ट्रेलिया राष्ट्रे सपरिवारं पर्यटन्नासीत्। हृदयाघातेन दिनद्वयात् पूर्वं चिकित्सालये तीव्रपरिचरणविभागे प्रवेशितः आसीत्।सञ्चारप्रियः अयं बहुत्र पर्यटनं कृत्वा तत्सम्बन्धीनि लेखनानि आनुकालिकेषु प्रकाशितवान्। संस्कृते सञ्चारसाहित्यस्य सरणिः अनेन अनावृता।संस्कृतपाठपुस्तकेषु अनेनरचिताः कविताः लेखनानि च योजितानि सन्ति।नववाण्यमपि महाशयस्य कृतयः प्रकाशिताः सन्ति।
   एतस्य वियोगे नववाणीसंघस्य प्रणामाञ्जलयः समर्प्यन्ते।

Leave a Reply

Your email address will not be published. Required fields are marked *