विषिञ्ञं प्रक्षोभः प्रतिनिवृत्तः, मुख्यमन्त्रिणा सार्धं समायोजितायां चर्चायां निर्णयः।

तिरुवनन्तपुरम्- विषिञ्ञं महानौकाश्रयनिर्माणं विरुध्य तीरदेशजनैः १४० दिनपर्यन्तं कृतः प्रक्षोभः प्रत्यावृत्तः। कुजवासरे सायं मुख्यमन्त्रिणा सह चर्चां कृत्वैव अयं निर्णयः स्वीकृतः। नौकाश्रयनिर्माणं स्थगितुं न शक्यते इति सर्वकारः प्रक्षोभकारिणः असूचयत्।

सर्वकारनिर्णयस्य पालनाय मुख्यसचिवस्य नेतृत्वे अवलोकनसमितिः रूपवत्क्रियते इति सर्वकारः तानबोधयत्।

अदानिसंघस्य व्यवहारं बुधवासरे उच्चन्यायालयः परिगणयिष्यतीति पूर्वं सूचितम्। तन्मध्ये एव अधुना समरस्य परिसमाप्तिः अजायत।

Leave a Reply

Your email address will not be published. Required fields are marked *