राष्ट्रिय कायिकक्रीडापुरस्कारः घोषितः। शरत् कमल् – खेल् रत्न, एच् एस् प्रणोय् एल्दो पोल् च – अर्जुनपुरस्कारः।

नवदिल्ली- राष्ट्रिय-कायिकक्रीडापुरस्काराः घोषिताः। टेबिल् टेन्नीस् क्रीडकः तथा कोमण् वेल्त् कायिकक्रीडायां सुवर्णपतकजेता च अजन्ता शरत् कमल् वर्यः मेजर् ध्यान् चन्द् पुरस्काराय अर्हः अभवत्। सोमवासरे एव राष्ट्रीय कायिकक्रीडामन्त्रालयः पुरस्कारान् अघोषयत्।

केरलीय क्रीडकौ एच् एस् प्रणोय(बाट्मिन्टन्), एल्दो पोल्(ट्रिप्पिल् जम्प्) इत्येतौ अर्जुनपुरस्काराय अर्हावभवताम्।

भारतीय क्रिक्केट् संघनायकस्य रोहित् शर्मणः परिशीलकाय दिनेश् जवहर् लाट् वर्याय द्रोणाचार्यपुरस्कारं दास्यति। क्रिक्केट् क्रीडार्थं तस्य योगदानं परिगणय्य एवायं पुरस्कारः।

Leave a Reply

Your email address will not be published. Required fields are marked *