केरलेषु सार्वजनीनविद्यालयीयाः छात्राः अतीव सन्तुष्टाः।

तृशूर् – केरलेषु विद्यालयजीविते अतिसन्तुष्टाः सार्वजनीन-विद्यालयीय छात्राः एवेति केन्द्रीय शिक्षामन्त्रालयस्य सर्वेक्षणम्। राष्ट्रस्थानां छात्राणां मानसिकस्वास्थ्यविषये सम्पर्कविषये चासीत् सर्वेक्षणम्।

केन्द्रीय विद्यालय- नवोदयविद्यालयप्रभृतिषु दश विभागेषु आसीत् सर्वेक्षणाध्ययनम्। एषु सर्वकारीण-धनादत्तविद्यालयेषु आधीयानेषु ८४७०५ छात्रेषु ७९ शतमितं छात्राः संतृप्ताः इति सूचितम्। विद्यालयेभ्यः अधीयानानां शेषीनां श्रेष्ठता एव अनेन व्यज्यते।

निजीयविद्यालयाः एव छात्राणां सन्तुष्ट्यां पराङ्भूताः भवन्ति। तत्रस्थाः ६७ शतमितं छात्राः एव केवलं सन्तुष्टाः।

Leave a Reply

Your email address will not be published. Required fields are marked *