प्रसिद्धः व्यालग्राही वावा सुरेष् वर्यः सर्पदंशनेन चिकित्सालयं नीतः।

कोट्टयम् – सर्पं गृहीत्वा पोटले निक्षिप्यमाने वावा सुरेष् इति विख्यातः व्यालग्राही सर्पदंशनेन चिकित्सालयं नीतः। कोट्टयं वैद्यकीयकलालये तीव्रपरिचरणविभागे तं प्रावेशयत्। सोमवासरे सायं चतुर्वादने आसीत् इयं घटना।

चङ्ङनाश्शेरि समीपे कुरिच्चि पञ्चायत् स्थले कस्यांचित् गोशालायं दिनत्रयात् पूर्वमेव सर्पः दृष्टः। सर्पं गृहीतुं तद्देशीयाः बहुयतमानाः अपि सफलतां नापुः। अतः अस्मिन् कार्ये विदग्धं वावा सुरेष् वर्यं न्यमन्त्रयन्। स आगत्य कृष्णशिलान्तराले निहितं सर्पम् अनायासेन गृहीतवान्।  पुनः तं सर्पं पोटले निक्षिप्य नेतुं निश्चिकाय। पोटले निक्षिप्यमाने सर्पः तस्य ऊरुभागे अदशत्। अचिरादेव अबोधावस्थां प्राप्तं  तं चिकित्सालयम् अनयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *