कोविड् व्यापनम्- पञ्चायत्त् तले नियन्त्रणानि शक्तीकरिष्यति। नियन्त्रितमेखलाप्रक्रमं तथा सम्पूर्णपिधानं च पुनः आयोजयिष्यति

तिरुवनन्तपुरम्-  कोविड् तृतीयतरङ्गे शक्ते जाते नियन्त्रणानि पञ्चायत् तले शक्तीकर्तुं मन्त्रिमण्डलाधिवेशने निर्णयो जातः। एतदर्थं पञ्चायत् अध्यक्षाणाम् अधिवेशनम् आयोजनीयमिति मुख्यमन्त्री निरदिशत्। पञ्चायत् तले नियन्त्रितमेखलां समुपस्थाप्य पूर्णपिधानसमं नियन्त्रणानि आयोजयितुमेव समालोचना। अद्य आयोज्यमाने कोविडवलोकनाधिवेशने अन्तिमनिर्णयो भविष्यति। अवश्यसेवामात्रम् अनूद्य पञ्चायत् तले पूर्णपिधानम् आयोज्यते चेत् रोगिणां संख्या नियन्त्रयितुं शक्यते इति मन्त्रिमण्डलाधिवेशनेन कट्वालोचितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *