भूतपूर्वः मुख्यसचिवः सि-पि- नायर् वर्यः निर्यातः।

तिरुवनन्तपुरम्- केरलराज्यस्य मुख्यसचिवचरः तथा विख्यातः साहित्यकारश्च सि-पि- नायर् वर्यः दिवंगतः। स ८१ वयस्कः आसीत्। राज्यसर्वकारस्य विविधेषु प्रधानविभागेषु सचिवरूपेण कर्म कृतवानयम्। १९६२ वर्गे ऐ ए एस् पदवीं प्राप्तवानयम् बहुकालं यावत् अनन्तपुर्यां विश्रामजीवनं नयन्नासीत्।

प्रशासनपरिष्करणायोगः देवस्वम् आयुक्तः इत्यादि धुरामावहत्। सेवानुभवाः हास्यकथाश्चाभिव्याप्य नैकान् ग्रन्थान् रचितवानयम्।

वृत्तिकालं सम्पूर्णम् अत्याचारान् विरुध्य स्थितवानयम्। ओट्टप्पालम् उपमण्डलाधिकारिरूपेण सोवां प्रविष्टोयं मुख्यसचिवपदवीतः विरराम।

Leave a Reply

Your email address will not be published. Required fields are marked *