द्वितीयस्तरछात्राः अपि नवागताः।८.०७ लक्षं छात्राः प्रथमतया विद्यालयं प्राप्नुवन्ति।

तिरुवनन्तपुरम्- नवम्बर् मासे विद्यालयेषु प्रवर्तमानेषु नवागतरूपेण ८०८८०२ छात्राः विद्यालयमागमिष्यति। अस्मिन् वर्षे प्रथमद्वितीयवर्गौ नवागतसूचिकायामेव परिगणयति। गतवर्षे एकदिनमपि विद्यालयेषु कक्ष्याः न प्रचलिताः। अत एव एते नवागता इति निर्णीताः।

गतवर्षे प्रथमवर्गे ३०२२८८ छात्राः प्रविष्टाः। अस्मिन् वर्षे तु ३०५४१४ छात्राः सन्ति। एते सार्वजनीनविद्यालयेषु प्रविष्टाः। निजीयविद्यालयेषु प्रविष्टानां संख्या अपि योजयते चेत् नवागतानां संख्या सार्धषट्लक्षमतिक्राम्यति। अस्मिन् वर्षे प्रथमकक्ष्यायां प्रविष्टानां संख्या इतः पर्यन्तं प्रविष्टसंख्यामपेक्ष्य उन्नता भवति।

२०१८-१९ वर्षादारभ्य एव सार्वजनीनविद्यालयेषु छात्राणां संख्या वर्धमाना दृश्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *