केरलेषु अचिरेणैव विद्यालयानां प्रवर्तनं पुनरारप्स्यति, विदग्धसमितिं नियोक्ष्यति इति शिक्षामन्त्री।

तिरुवनन्तपुरम्- राज्यस्थाः विद्यालयाः अचिरेणैव प्रवर्तनसज्जाः भविष्यन्ति। तदर्थं प्रायोगिकतां निरीक्षितुं विदग्धसमितिं नियोक्ष्यतीति शिक्षामन्त्रिणा वी शिवन् कुट्टि वर्येण निगदितम्।

समितेः अभिवेदनं परीक्ष्य मुख्यमन्त्रिणा साकं चर्चां च विधास्यन्नेव निर्णयः स्वीकरिष्यति।

राज्ये कोविड् रोगव्यापनस्य आधिक्ये आशङ्का नावश्यकी। रविवासरे पिधानं तथा रात्रौ निरोधनाज्ञां च विहाय विद्यालयान् पुनरुद्घाट्य जनजीवनं साधारणरूपेण नेतुं शक्यते इति मुख्यमन्त्रिणा समायोजिते अधिवेशने अन्ताराष्ट्रतले विदग्धाः निर्दिशन्ति स्म। तदनुसारमेव शिक्षामन्त्रिणः प्रस्तावना।

Leave a Reply

Your email address will not be published. Required fields are marked *