पुरोहितः स्टान् स्वामीवर्य परलोकमगात्।

मुम्बै- भीमा कोरेगाव् व्यवहारे गृहीत्वा कारागारं नीतः ईशो सभा वैदिकः फा. स्टान् स्वामी वर्यः अस्माल्लोकान्निरगात्। स ८४ वयस्कः आसीत्। अद्य मध्याह्ने मरणं सञ्जातमिति स्टान् स्वामीवर्यस्य अभिभाषकः मुम्बै उच्चन्यायालयं बोधितवान्। तस्य प्रतिभूत्यावेदनं परिगण्यमाने आसीत् मृत्युवृत्तान्तः।

एल्गार् परिषत्तेन सह सम्बन्धमारोप्यैव मनुष्याधिकारप्रवर्तकोयं निगृहीतः। पार्किन्सण् इत्यामयेन पीडितस्य तस्य स्वास्थ्यावस्थां अपरिगणय्यैवासीत् तस्य निग्रहः। २०२० ओक्टूबर् मासतः कारायां बद्धस्यास्य स्वास्थ्यस्थितिः अधिकं सङ्कीर्णा अभवत्।

स्वास्थ्यस्थितिं परिगणय्य मुम्बै उच्चन्यायालयस्य निर्देशानुसारं तं मुम्बैस्थं होलिफामिलि चिकित्सालयं नीतमासीत्। अस्यान्तरे कोविड् बाधा अपि सञ्जाता। चिकित्सामध्ये हृदयाघातेन तस्यावस्था सङ्कीर्णा जाता, अनेन मरणमपि सञ्जातम्।

Leave a Reply

Your email address will not be published. Required fields are marked *