कोविड्-१९, कृषकाणां कृते १९ निखर्व डोलर् मितेन आर्थिकनिचयेन सह डोलाल्ड् ट्रम्प्।

वाषिङ्टण्- कोविड् बाधानन्तरम् अपचयमाप्तस्य कार्षिकरंगस्य सहयोगार्थम् अमेरिका अध्यक्षः डोनाल्ड् ट्रम्प् वर्यः १९ निखर्वं आर्थिकनिचयं प्राख्यापयत्। शुक्रवासरे सम्पन्ने वार्ताहरसम्मेलने एव ट्रम्पस्य प्रख्यापनम्।

महामारिकारणात् दुरितमनुभूयमानानां कृषकाणां कृते साहाय्यं प्रत्यक्षतया दातुमेवायमुद्यमः।

विद्यालयानां भोजनालयानां च पिधानेन कृषकाः महान्तं नष्टमन्वभवत्। कार्षिकोत्पन्नानां चोदना न्यूनीकृता। अतः उत्पन्नानां नाशः सम्भूतः। कृषकेभ्यः उत्पन्नानि सर्वकारः क्रीणीय सामाजिक भक्ष्यशृङ्खलाद्वारा समान्यजेभ्यः वितरिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *