नागरिक संशोधन विधेयकं विरुध्य अद्य संयुक्तसत्याग्रहः।

तिरुवनन्तपुरम्- नागरिकनियमं विरुध्य केरले प्रशासक-विपक्षदले संयुक्ततया सत्याग्रहसमरम् आयोजयतः। सोमवासरे प्रातः दशवादनात् मध्याह्ने एकवादनं यावत् पालयं रक्तसाक्षिमण्डपे एव सत्याग्रहः। संविधानविरुद्धं नागरिकनियमं प्रत्यपायनीयं संविधानमूल्यानि संरक्षणीयानि इत्यादीनी मुद्रावाक्यानि उन्नीयैव सत्याग्रहः।
मुख्यमन्त्री पिणरायि विजयः विपक्षदलनेता रमेश् चेन्नित्तला, मन्त्रिणः, वामपक्षीय लोकतान्त्रिक सन्नाहस्य तथा ऐक्यलोकतान्त्रिकसन्नाहस्य च नेतारश्च सत्याग्रहे भागं गृहीष्यन्ति। अस्य सर्वकारस्य काले केन्द्रनियमं विरुध्य प्रशासकविपक्षदलयोः संयुक्तसमरं प्रथममेव।
कला साह्त्य सांस्कृतिकमण्डलस्थाः प्रमुखाः लोकतन्त्रसंरक्षणार्थं प्रवर्तमानानि दलानि, नवोत्थानसमितिप्रवर्तकाश्च अस्मिन् समरे भागं गृह्णन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *