संस्कृतभारत्याः विश्वसम्मेलनम् ।

नवदिल्ली – संस्कृतभारत्याः विश्वसम्मेलनम् नवदिल्ल्यां  छतरपुरे  नवम्बर् मासस्य ८,९,१०,११  तिथिषु प्रचलदस्ति। द्वितीयदिने रविवासरे विश्वसम्मेलनस्योद्घाटनं केन्द्रीयगृहमन्त्री श्री अमित् षावर्यः निर्वक्ष्यति। सम्मेलनेन साकं भारतीय विज्ञानपरम्परामधिकृत्य प्रज्ञानं नामकं प्रदर्शनं आयोजयिष्यति। प्रदर्शिन्याः समुद्घाटनं केन्द्रीयविदेशसहमन्त्री श्री वि.मुरलीधरन् महोदयः निर्वक्ष्यति। सम्मेलने∫स्मिन्  डो. हर्षवर्धनः, संस्कृतभारत्याः अखिलभारतीयाध्यक्षः  श्री भक्तवत्सला, केरलीयाः बहवः संस्कृतप्रचारकाः च भागभाजाः भवन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *