अपराधान्वेषणचरित्रे असाधारणा घटना। मुख्यमन्त्री अन्वेषणसंघम् अभ्यनन्दयत्।

कोषिक्कोट्- कोषिक्कोट् जिल्लायां कूटत्तायि देशे दुरूहमरणानां कारणमन्विष्यमाणः आरक्षिदलः शीघ्रमेव आगस्कारिणं प्रक्यभिज्ञाय अपराधम् अावेदयत्। एतस्मिन् विषये मुख्यमन्त्री पिणरायि विजयन् वर्यः आरक्षिदलम् अभ्यनन्दयत्। एतत् अपराधान्वेषणचरिते असाधारणा घटना इति स अब्रवीत्।

कूटत्तायि देशे सञ्जाता एषा घटना वैभवरूपेण बहिरानीता इति व्यवहारविषये फेस्बुक् मध्ये स असूचयत्। अन्वेषणसंघस्थान् सर्वानपि स अभ्यनन्दयच्च।

Leave a Reply

Your email address will not be published. Required fields are marked *