राज्यस्तरीयः विद्यालयकलोत्सवः २०१९ नवम्बर् २८ तः डिलम्बर् १ पर्यन्तम्।

कासरगोड्- केरल-राज्यस्तरीयः विद्यालयकलोत्सवः अस्मिन् वर्षे नवम्बर् २८ तः डिसम्बर् १पर्यन्तं कासरगोड् मण्डले प्रचलिष्यति। अष्टाविंशति वर्षानन्तरमेव अयं कलोत्सव‌ः कासरगोड् देशे आयोज्यते। हरितनियमानुसारं तथा भिन्नशेषीसौहृदपरं चायमुत्सवः अस्मिन् वर्षे सम्पत्स्यते इति अधिकारिणः अवदन्।

     कलोत्सवाय संघाटकसमितेः रूपवत्करणम् कासरगोडे सम्पन्नम्। मन्त्रिणः इ चन्द्रशेखरवर्यस्य आध्यक्ष्ये २१ उपसमितियुक्ता समितिः रूपीकृता। कलोत्सवार्थं त्रिंशत् वेदिकाः आयोक्ष्यते। प्रधानवेदिका काञ्ञङ्ङाट् देशे भविष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *