वयलार् पुरस्कारः वी.जे. जेयिंस् महोदयाय।

तिरुवनन्तपुरम्- अस्मिन् वर्षे वयलार् रामवर्मा स्मारकसाहित्यपुरस्कार‌ाय वि.जे. जेयिंस् वर्यस्य निरीश्वरन् इति नोवल् अर्हमभवत्। लक्षं रूप्यकाणि प्रशस्तिपत्रं शिल्पं च पुरस्कारे अन्तर्भवति। सुप्रसिद्धः श्ल्पी कानायि कुञ्ञीरामन् वर्यः शिल्पस्य रूपकल्पनमकरोत्। वयलार् रामवर्म स्मारक निधिरेव पुरस्कारं ददाति।

वयलार् वर्यस्य चरमदिने ओक्टोबर् २७ दिनाङ्के अनन्तपुर्यां निशागन्धी श्रोतालये एव पुरस्कारदानं समायोजयत्। निधेः अध्यक्षः पेरुम्पटवं श्रीधरः वार्ताहरमेलने इदमसूचयत्।

विक्रं साराबाय् शून्याकाशानुसन्धानकेन्द्रे अभियान्त्रिको भवति जेयिस् वर्यः। अयं चङ्ङनाश्शेरि वाषप्पल्ली देशीयः।

Leave a Reply

Your email address will not be published. Required fields are marked *