आगामिवर्षादारभ्य विद्यालयाः कलालयाः इतराः शिक्षासंस्थाः च जूण् प्रथमे दिने एव प्रवर्तनमारभ्स्यन्ते इति उन्नतशिक्षामन्त्री।

तिरुवनन्तपुरम्- आगामिनेः वर्षादारभ्य विद्यालयानां कलालयानां इतराणां शिक्षासंस्थानां च प्रवर्तनं जूण् प्रथमे दिने एव आरभ्स्यते इति उन्नतशिक्षामन्त्री डो. के.टी. जलील् वर्यः अवदत्। एतदर्थं तीव्रं यत्नमेव सर्वकारः आयोजयति इत्यपि स अवदत्।

वृत्तिमन्विष्य यथा जनाः केरलानागच्छन्ति तथा उन्नतशिक्षायै कोपि नागच्छति। तत् पठनारम्भसमस्यया एवेत्यपि स न्यगादीत्। मुतुवेल्लूर् ऐ.एच्.आर्.डी. मन्दिरम् उद्घाटयन् भाषमाण आसीत् स‌ः।

Leave a Reply

Your email address will not be published. Required fields are marked *