मैक् पोम्पियो नरेन्द्रमोदिना सह साक्षात्कारं कृतवान्

नवदिल्ली-  अमेरिका विदेशकार्यसचिवः मैक् पोम्पियोवर्यः नवदिल्लयां प्र्धानमन्त्रिणा नरेन्द्रमोदीवर्येण साकं साक्षात्सम्भाषणं कृतवान्। प्रधानमन्त्रिपदे द्वितीयवारमागतं नरेन्द्रमोदिनं पोम्पियो अभ्यनन्दयत्। इतरे तन्त्रप्रधानविषयाः चर्चायां नागताः।

     राष्ट्रिय-सुरक्षा उपदेष्टा अजित् डोवल्, विदेशकार्यमन्त्री एस्. जयकुमार् इत्येताभ्यां साकमपि पोम्पियोवर्यः साक्षात्सम्भाषणं करिष्यति। भारतसन्दर्शनं समाप्य गुरुवासरे सायं पोम्पियोवर्यः प्रतिनिवर्तिष्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *