योगविद्या साधारणजनान् प्रति प्रापणमेव लक्ष्यम्- प्रधानमन्त्री

राञ्ची- योगविद्यां साधारणजनान् प्रापयतु इति लक्ष्येणैव सर्वकारः प्रवर्तते इति प्रधानमन्त्री नरेन्द्रमोदीवर्यः प्रावोचत्। राञ्च्यां प्रभात् तारा स्थले आयोजिते योगदिनाचरणसमारोहे भाषमाणः आसीत् सः। आरोग्याय मनःप्रसादाय च योगविद्या अत्यन्तमुपकरोतीति स अभिप्रैति स्म।

आधुनिकयोगविद्या नगरमनुव्याप्य तिष्ठति। तां ततः ग्रामान् प्रति प्रापणमेव लक्ष्यमित्यपि स न्यगादीत्। साधारणजनान् तथा आदिवासिजनजातिजनान् च प्रति योगविद्या प्रापणीया। तेषां दैनन्दिनजीवनस्य भागत्वेन योगविद्यां परिवर्तयेत। यतो हि ते एव रोगेण अत्यधिकं दूयमानाः भवन्ति।

अद्य विश्वस्य विभिन्नेषु प्रान्तेषु अन्ताराष्ट्रयोगगिनं समुचितत्वेन आचर्यते। तेभ्यः प्रधानमन्त्री आशंसामार्पयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *