केरले पुनरपि निपा विषाणुसन्देहः, चिकित्सायां प्रविष्टस्य यूनः रक्तबिन्दूपरिशोधनफलम् अद्य लभेत।

कोच्ची- निपा विषाणुं सन्दिह्य चिकित्सार्थं प्रविष्टस्य यूनः रक्तबिन्दून् परीक्ष्य फलम् अद्य लभेत। पूणै विषाणुपठनसंस्थायामेव परिशोधनार्थं प्रेषितः। यदि निपा स्थिरीक्रियते तर्हि प्रतिरोधप्रवर्तनानि ऊर्जितरूपेण आयोजयिष्यति।

     परिशोधनफलं यत्किमपि भवतु प्रतिरोधप्रवर्तनानि समग्रतया आयोजनीयानि इति स्वास्थ्यमन्त्री कर्मकरेभ्यो निर्देशमदात्। रोगग्रस्तेन सह सम्पर्के स्थितान् ८६ जनान् अनुस्यूतम् निरीक्षते। तदर्थं सज्जीकरणानि सम्पूर्णानि इति कलमश्शेरि वैद्यकीयकलालये अवलोकनाधिवेशनानन्तरं मन्त्री न्यगादीत्। एतदर्थं कलालये/स्मिन् नियन्त्रणकेन्द्रं प्रवर्तनमारब्धम्। दूरवाणीक्रमाङ्कः १०७७, १०५६.

Leave a Reply

Your email address will not be published. Required fields are marked *