नारायणीयं पुरस्कारं हरिप्रसाद् कटम्पूर् वर्याय समार्पयत्।

गुरुवायूर् – नारायणीयदिनमनुबन्ध्य पण्डितेभ्यो दीयमानाय नारायणीयपुरस्काराय अस्मिन् वर्षे हरिप्रसाद् कटम्पूर् इति पण्डितवर्यः अर्हो/भवत्। नारायणीये काव्यालङ्कारः इत्यस्मिन् विषये समर्पितः प्रबन्धः एव पुरस्काराय परिगणितः।

     नारायणीयदिनत्वेन आचरिते ह्यस्तने गुरुपवनपुरस्थे मेप्पत्तूर् सभागृहे आयोजिते समारोहे पुरस्कारः समर्पितः।मातृभूमी दिनपत्रिकायाः मुख्यसम्पादकः पुरस्कारं तस्मै समर्पितवान्। देवस्वं भारवाहिप्रभृतयो महात्मानः सन्न्हिताः आसन्। अष्टमवारम् अनुस्यूततया हरिप्रसादः एतस्मै पुरस्काराय अर्हः अभवत्।

3 Responses to नारायणीयं पुरस्कारं हरिप्रसाद् कटम्पूर् वर्याय समार्पयत्।

  1. Deviprasadam P R says:

    congrats Hari sir…

  2. sureshbabu c c says:

    हार्दिक अभिनन्दनानि

  3. Jose CV says:

    अभिनन्दनानि।👍👍👍👍👌👍👍👍💐💐💐💐💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *