हनान् विरुध्य प्रचारणं- रक्षिपुरुषैः अन्वेषणमारब्धम्।

तिरुवनन्तपुरम्-पठनार्थं परिवारपोषणार्थं च धनं सम्पादयितुं कोच्ची नगरे मत्स्यविपणनकर्मणि निरतां हनान् इति युवतिं प्रति समाजमाध्यमेषु अवमतिरूपं प्रचारणं कृतवतः जनान् अपराधव्यवहारे योजयतीति आरक्षकसंघः अवदत्। समाजमाध्यमेषु तां निन्दितान् सर्वान् विरुध्य शनिवासरे एव प्रथमसूचनावेदनं पञजीकरिष्यति। सैबर् अन्वेषणसंघस्यैव अन्वेषणस्य दायित्वमस्ति। मुख्यमन्त्रिणः कार्यालयादेव एषा सूचना दत्ता। अपि च तस्याः सुरक्षायै सर्वा अपि व्यवस्था करणीया इति मुख्यमन्त्रिणः कार्यालयः एरणाकुलं जनपदाधिकारिणम् निरदिशत्।

Leave a Reply

Your email address will not be published. Required fields are marked *