परिस्थितिदिनाचरणम्, हरितकेरलं दौत्यं विविधान् कार्यक्रमान् आयोजयति।

तिरुवनन्तपुरम्- विश्वपरिस्थितिदिवसमालक्ष्य हरितकेरलं दौत्यं राज्ये विविधान् कार्यक्रमान् आयोजयति। परिस्थिति वातावरणविभागेन हरितकेरलं दौत्येन च संयुक्ततया अयं कार्यक्रमः आयेज्यते। दिनाचरणस्यास्य राज्यस्तरीयम् उद्घाटनं जूण् ५ दिनाङ्के सायं त्रिवादने तिरुवनन्तपुरं कनकक्कुन्न् प्रासादे शिक्षामन्त्रिणः रवीन्द्रनाथवर्यस्य आध्यक्ष्ये मुख्यमन्त्री पिणरायि विजयवर्यः निर्वक्ष्यति। वैद्युतिमन्त्री एं.एं. मणिवर्यः मुख्यभाषणं च विधास्यति। सामाजिकः के. मुरळीधरन् वर्यः तिरुवनन्तपुरं महानगरपालः अड्वक्केट् वी.के.प्रशान्तः प्रभृतयः भागभाजिनः भविष्यन्ति। परिस्थिति-जलसंरक्षणम् इति विषयमाधारीकृत्य हरितकेरलदौत्येन आय़ोज्यमानायाः इनि ञङ्ङल् परयुम् इति अनिमेषन् वीडियो परम्परायाः प्रकाशनमपि मुख्यमन्त्री विधास्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *