श्रीनारायणधर्ममीमासापरिषदः शिवगिरिमठे शुभारम्भः।

वर्क्कला/शिवगिरी-    षट्पञ्चाशत्तमस्य  श्रीनारायणधर्ममीमांसापरिषदः शिवगिरिमठे शुभारम्भः अभवत्। त्रिदिवसीये अस्मिन् कार्यक्रमे विश्व-बौद्ध-सांस्कृतिकरेन्द्रस्य स्थापकः लामा डोबुं दुलक् दीपं प्राज्वालयत्। शिक्षाप्रगतिद्वारा जाति-धर्मसङ्कल्पान् उन्मूलयितुं प्रयत्नं कृतवान् मनुष्यस्नेही भवति गुरुदेव इति लामा अवदत्

     मन्दिराणि न केवलम् आराधनकेन्द्राणि परन्तु विज्ञानकेन्द्राणि भवन्तु इति नारायणगुरुदेवस्य मार्गनिर्देशः असामान्य एवेति लामायाः अभिप्रायः। मानवस्य आत्मीयाधिष्ठानं शक्तीकृत्य निस्वार्थसेवनद्वारा लोकस्य पुरतः आत्मीयतायाः अनिर्वापदीपत्वेन प्रेज्वलति गुरुदेव इत्यपि स न्यगादीत्। धर्मसंघं ट्रस्ट अध्यक्षः स्वामी विशुद्धानन्दः आध्यक्ष्यं निरवहत्।

Leave a Reply

Your email address will not be published. Required fields are marked *