भारते पीडनं, पाकिस्तानः भारतात् स्थानपतिम् अन्वाह्वयत्।

इस्लामबाद्- भारतीयाधिकृताः पीडयन्तीति आरोपणमुन्नीय पाकिस्तानः भारतात् स्वस्थानपतिम्  अन्वाह्वयत्। पाकिस्तानस्य स्थानपतिं सोहियल् मुहम्मद् वर्यमेव एवम् अन्वाह्वयति स्म। सेवकानां सुरक्षाकार्ये भारतस्य अवधानता जाग्रता वा नास्तीति पाकिस्तानस्य विदेशकार्यवक्ता मुहम्मद् फैसल् अन्वारोपयत्। पाक् सेवकाः तेषां परिवाराश्च गतसप्ताहे बहुवारं पीडिताः इति तेन सूचितम्। पाकिस्तान् उपस्थानपतेः यानं केचन अनुगताः चालकं व्यनिन्दयन् चेति पाकिस्तान् प्रवक्ता अवदत्।

     परन्तु भारते कर्म कुर्वतां पाक् सेवकानां सुरक्षा नियता इति भारतप्रतिनिधयः अवदन्। परं भारतप्रतिनिधयः पाकिस्तानेन पीडिताः भवन्ति इति भारतमपि आरोपणम् अकरोत्।

Leave a Reply

Your email address will not be published. Required fields are marked *